संज्ञा प्रकरणम् – लघुसिद्धान्तकौमुदी (सम्पूर्ण सूत्राणि)

लघुसिद्धान्तकौमुदी – संज्ञा प्रकरणम् (सम्पूर्ण सूत्राणि)

१. हलन्त्यम् (१.३.३): उपदेशेऽन्त्यं हल् इत् स्यात्।

२. अदर्शनं लोपः (१.१.६०): प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।

३. तस्य लोपः (१.३.९): तस्येतो लोपः स्यात्।

४. आदिरन्त्येन सहेता (१.१.७१): अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात्।

५. उकालोऽज्झ्रस्वदीर्घप्लुत: (१.२.२७): उश्च ऊश्च ऊ३श्च वः, वां काल इव कालो यस्य सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात्।

६. उच्चैरुदात्तः (१.२.२९): ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात्।

७. नीचैरनुदात्तः (१.२.३०): ताल्वादिषु सभागेषु स्थानेष्वधोभागे निष्पन्नोऽज् अनुदात्तसंज्ञः स्यात्।

८. समाहारः स्वरितः (१.२.३१): उदात्तानुदात्तत्वे वर्णधर्मावेकस्मिन्नचि यत्र मिलतः स स्वरितसंज्ञः स्यात्।

९. मुखनासिकावचनोऽनुनासिकः (१.१.८): मुखसहितनासिकया उच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्।

१०. तुल्यास्यप्रयत्नं सवर्णम् (१.१.९): ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद् द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्।

११. नाज्झलौ (१.१.१०): अचो हलश्च मिथः सवर्णसंज्ञा न स्युः।

१२. अणुदित्सवर्णस्य चाप्रत्ययः (१.१.६९): प्रतीयते विधीयते इति प्रत्ययः। अविधीयमानोऽणुदित् च सवर्णस्य संज्ञा स्यात्।

१३. परः संन्निकर्षः संहिता (१.४.१०९): वर्णानामतिशयितः संन्निधिः संहितासंज्ञः स्यात्।

१४. हलोऽनन्तराः संयोगः (१.१.७): अज्भिर्व्यवहिता हलः संयोगसंज्ञाः स्युः।

१५. सुप्तिङन्तं पदम् (१.४.१४): सुबन्तं तिङन्तं च पदसंज्ञं स्यात्।

॥ इति संज्ञा प्रकरणम् ॥