कारक प्रकरणम् – लघुसिद्धान्तकौमुदी (सूत्राणि)

कारक प्रकरणम् – लघुसिद्धान्तकौमुदी

१. प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (२.३.४६): नियतोपस्थितिकः प्रातिपदिकार्थः। मात्रशब्देन प्रत्येकं योगः।

२. कर्तुरीप्सिततमं कर्म (१.४.४९): कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात्।

३. कर्मणि द्वितीया (२.३.२): अनुक्ते कर्मणि द्वितीया स्यात्।

४. साधकतमं करणम् (१.४.४२): क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात्।

५. कर्मणा यमभिप्रैति स सम्प्रदानम् (१.४.३२): दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात्।

६. ध्रुवमपायेऽपादानम् (१.४.२४): अपायो विश्लेषः, तस्मिन् साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात्।

७. आधारोऽधिकरणम् (१.४.४५): कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणं स्यात्।

॥ इति कारक प्रकरणम् ॥